जरा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जरा, स्त्री, (जीर्य्यत्यनया । जॄ + “षिद्भिदादि- भ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । “ऋदृशो- ऽङि गुणः ।” ७ । ४ । १६ । इति गुणः ।) वयःकृतश्लथमांसाद्यवस्थाभेदः । वार्द्धक्यम् । “जीर्य्यत्यनया जरा जॄ ष वयोहानौ षित्वात् डः दृश्रोर्णुरिति गुणः ।” इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । विस्रसा २ । इत्यमरः । २ । ६ । ४१ ॥ सा तु कालकन्या । यथा, -- “कालकन्या जरा साक्षात् लोकस्तां नाभिनन्दति । स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥” इति श्रीभागवतम् । अपिच । “श्लक्ष्णीकृतं भृङ्गराजस्य चूर्णं तिलार्द्धकं चामलकार्द्धकञ्च । सशर्करं भक्षयते गुडैर्व्वा न तस्य रोगो न जरा न मृत्युः ॥” अन्धः पश्येद्गमनरहितो मत्तमातङ्गगामी मूको वाम्मी श्रवणरहितो दूरशब्दानुसारी । नीरुङ्मर्त्त्यो भवति पलिती नीलजीमूतकेशो जीर्णा दन्ताः पुनरपि नवाः क्षीरगौरा भवन्ति ॥” इति भैषज्यरत्नावल्यां भृङ्गराजादिचूर्णम् ॥ (“क्लैव्यं जरासम्भवं हि प्रवक्ष्याम्यथ तत् शृणु ॥ जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते । अघ प्रवयसां शुक्रं प्रायशः क्षीयते नृणाम् ॥ रसादीनां संक्षयाच्च तथैवावृष्यसेवनात् । वलवीर्य्येन्द्रियाणाञ्च क्रमेणैव परिक्षयात् ॥ परिक्षयादायुषश्चाप्यनाहारात् श्रमात् क्लमात् । जरासम्भवजं क्लैव्यं इत्येतैर्हेतुभिर्नणाम् ॥ जायते तेन सोऽत्यर्थं क्षीणधातुः सुदुर्ब्बलः । विवर्णो विह्वलो दीनः क्षिप्रं व्याधिमथाश्नुते ॥ एतज्जरा सम्भवं हि ॥” “जरासम्भवजे क्लैव्ये क्षयजे चैव कारयेत् । स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम् ॥ क्षीरसर्पिर्बृष्ययोगा वस्तयश्चैव यापनाः । रसायनप्रयोगाश्च तयोर्भैषजमुच्यते ॥” इति चरके चिकित्सास्थाने त्रिंशेऽध्याये ॥ * ॥ “या च भार्य्या विरूपाक्षी कश्मला कलहप्रिया । वचनोत्तरवक्त्री च सा जरा न जरा जरा ॥” इति चाणक्यम् ॥ * ॥) क्षीरिकावृक्षः । इति शब्दचन्द्रिका ॥ राक्षसी- विशेषः । यथा, श्रीभागवते । “अन्यस्यामपि भार्य्यायां शकले द्वे बृहद्रथात् । ते मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ॥”
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जरा स्त्री।
जरा
समानार्थक:विस्रसा,जरा
2।6।41।1।3
पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा। स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी॥
पदार्थ-विभागः : , सामान्यम्, अवस्था
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जरा¦ स्त्री जॄ--अङ् गुणः।
१ वयःकृतश्लथमांसाद्यवस्थाविशेषे
“कृष्णवर्त्मनि गुणान् गणयन्ती जीवनेषु लघय-न्त्यनुरागम्। आगता वत जरेव हिमानी सेव्यतांसुरतरङ्गिणी” उद्भटः
“मदेकपुत्रा जननी जरातुरा” नैष॰
२ जराहेतौ
“या हृष्टमनसा नित्यं स्थानमानविचक्षणा। भर्त्तुःप्रीतिकरी नित्यं सा भार्य्या हीतरा जरा”
३ जरा-धिष्ठातृदेवताभेदे। सा तु कालकन्या। यथा
“कालकन्याजरा साक्षात् लीकस्तां नाभिनन्दति। स्वसारं जगृहेभृत्युः क्षयाय जगतामिह” भागवतम्। जराति-क्रमोपायाश्च दर्शिता यथा
“मृत्यू रोगाः सुताश्चैवजरा तस्य च कन्यका। जरा च भ्रातृभिः सार्द्धं शश्वद्भ्र-मति भूतलम्। एते चीपायवेत्तारं न गच्छन्ति च साम्प्र-तम्। पलायन्तेच तं दृष्ट्वा वैनतेयमिवोरगाः। चक्षुर्जलञ्चव्यायामः पादाधस्तैलसेवनम्। कर्णे तैलं मूर्द्ध्नितैलंजराव्याधिविनाशनम्। वसन्ते भ्रमणं वह्निसेवाऽस्वप्नंकरोति यः। बालाञ्च सेवते काले जरा तंनोपगच्छति। स्वातशीतोदकस्नायी सेवते चन्दन-द्रवम्। नोपयाति जरा तञ्च निदाघेऽनिलसेवि-नम्। प्रावृडुष्णोदकस्नायी घनतोयं न सेवते। सम-ये च समाहारी जरा तं नोपगच्छति। शरद्रौद्रंन गृह्णाति भ्रमणं तत्र वर्जयेत्। खातस्नायी समा-हारी जरा तं नोपतिष्ठते। खातस्नायी च हेमन्तेकाले वह्निं निषेयते। भुङ्क्ते नवान्नमुष्णञ्च जरा तंनोपगच्छति। शिशिरेऽंशुकवह्निं च नवोष्णान्नञ्च सेवते। य एवेष्णोदकस्नायी जरा तं नोपगच्छति। सद्योमांसंनवान्नञ्च वालस्त्रीं क्षीरभोजनम्। घृतञ्च सेबते योहिजरा तं नोपगच्छति। भुङ्क्ते सदन्नं क्षुत्कालेतृष्णायां पीयते जलम्। नित्यं भुङ्क्ते च ताम्बूलंजरा तं नोपगच्छति। दधि हैयङ्गवीनञ्च नवनीतं तथा-शुभम्। नित्यं भुङ्क्ते संयमी यो जरा तं नैव गच्छति। शुष्कमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि। तं सेवन्तं[Page3059-a+ 38] जरा याति पहृष्टा भ्रातृभिः सह। रात्रौ ये दधि-सेवन्ते पुंश्चलीञ्च रजस्वलाम्। तमुपैति जरा हृष्टाभ्रावृभिः सह सुन्दरि! इतिब्रह्मबैपु॰ व्रह्मख॰।
४ राक्षसी-भेदे जरासन्धशब्दे दृश्यम्।
५ क्षीरिणीवृक्षे शब्द-च॰।
६ स्तुतौ निरु॰।
“जराबोध! तद्विविडिढ” ऋ॰
१ ।
२७ ।
१० इत्यस्यामृचि निरुक्ते
४ ।
९ ।
३ ।
“जरा स्तुतिर्जरतेःस्तुतिकर्मणः” इत्युक्तम्। ( अजादौ प्रत्यये परे मुख्ये गौणे च वा जराया जरस्। जरसी जरे जरया जरसा।
“न ह्यस्या अपरं चन जरसामरते पतिः” निरु॰
११ ।
३८
“धृता ऋक्
“वृद्धत्वं जरसाविना”
“मृगैरजर्य्यं जरसोपदिष्टम्” रघुः गौणे
“वीत-जन्म जरसं परं शुचिः” किरा॰ निर्जरसम् निर्जरम्।
“अजरांसि च वस्त्राणि धारयन्ति गतक्लमाः” भा॰ अनु॰
१२
३ अ॰। अव्ययीभावसमासे नित्यम् अच् जरस् च मा॰जरायाः अभावः अजरसम्। सह जरया सजरसम्।
७ निषादभेदे।
“जरानामनिषादानां प्रभुः सर्वधनुष्मताम्” हरिवं॰
१६
२ अ॰। जरेति नाम येषां तेषां निषादानाम्इत्यर्थः। तत्र स्तुतौ
“तासां जरां प्रमुञ्चन्नेति”। ऋ
० ः।
१४
० ।
८
“अच्छावदा तना गिरा जरायै ब्रह्मणस्पतिम्”।
१ ।
३८ ।
१३ ।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जरा¦ f. (-रा)
1. Decrepitude, the general relaxation and debility conse- quent upon old age, or old age itself.
2. A tree, (Mimusops kauki, Rox.)
3. A female demon or Rakshasi. E. जॄ to grow old, affixes अङ् and टाप्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जरा [jarā], [जॄ-अङ् गुणः] (The word जरस् is optionally substituted for जरा before vowel terminations after acc. dual.)
Old age; कैकेयीशङ्कयेवाह पलितच्छद्मना जरा R.12. 2; तस्य धर्मरतेरासीद् वृद्धत्वं जरया (जरसा) विना 1.23.
Decrepitude, infirmity, general debility consequent on old age.
Praise.
Digestion.
N. of a female demon; see जरासन्ध below.
Invoking, greeting.-Comp. -अवस्था decrepitude. -आतुर a.
infirm.
old. -जीर्ण a. old through age, debilitated, infirm; Bh.3.17. -पुष्ट = -जरासन्ध. -भीरुः the god of love, Cupid. -सन्धः N. of a celebrated king and warrior, son of Bṛihadratha. [According to a legend, he was born divided in two halves which were put together by a Rākṣasī called Jara, whence the boy was called Jarāsandha. He became king of Magadha and Chedi after his father's death. When he heard that Krisna had slain his son-in-law Kaṁsa, he gathered a large army and besieged Mathurā eighteen times, but was as often repulsed. When Yudhiṣṭhira performed the great Rājasuya sacrifice, Krisna, Arjuna and Bhīma went to the capital of Jarāsandha disguised as Brāhmaṇas, chiefly with the object of slaying their enemy and liberating the kings imprisoned by him. He, however, refused to release the kings, whereupon Bhīma challenged him to a single combat. The challenge was accepted; a hard fight ensued, but Jarāsandha was at last overpowered and slain by Bhīma.] -सुतः Jarāsandha; जरासुतस्तावभिसृत्य माधवौ Bhāg.1.5.21.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जरा f. ( Pa1n2. iii,3 , 104 )the act of becoming old , old age RV. i , 140 , 8 ; v , 41 , 17 AV. etc. (personified as a daughter of Death VP. i , 7 , 31 )
जरा f. digestion Car. iii , l and 3 ; vi Sus3r. vi , 46 , 10
जरा f. decrepitude W.
जरा f. a kind of date-tree L.
जरा f. N. of a राक्षसी(See. रा-संध) MBh. ii , vii Hariv. 1810 BhP. ix , 22 , 8
जरा f. See. वि-जर.
जरा f. old ageSee. s.v. जर.
जरा f. invocation , praise( स्तुतिNir. x , 8 ) RV. i , 38 , 13 ; x , 32 , 5.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a राक्षसि who picked up the two parts of बृहद्रथ's son and gave them life--the future जरा- sandha (s.v.). भा. IX. २२. 8; X. ५०. २१; ७१. 3; ७२. ४२.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
JARĀ : A harpy (Rākṣasī). Though she was a harpy she loved human beings. It is believed that if the picture of Jarā and her children is placed in the house and venerated, there will be no haunting of any other kinds of demons.
The figure of Jarā was sculptured on the wall of the Palace of Bṛhadratha, the King of Magadha, and was being worshipped. Because the King worshipped her, she had been looking forward to an opportunity to reward the King. Bṛhadratha had married two daughters of the King of Kāśī. They were twin sisters. For a long time they remained childless. The King was very sorry, and went to the forest with his wives. He saw the hermit Kakṣīvān or Caṇḍakauśika, the son of Gautama and requested that a son should be born to him. The hermit was sitting in meditation under a mango tree and a mango fell on his lap. The hermit took it and by prayer and meditation he invoked divine power into it and gave it to the King. The King divided it into two and gave it to his wives. The queens became pregnant and the three returned joyously.
In due course both delivered. But each of them gave birth to only half of a child. The horrified queens took the uncouth figures outside the palace and left them there. Jarā was watching this. She ran to the spot and placed the two portions together. Instantly it became a child of proper form. Hearing the cry of the child the mothers came out. Jarā appeared there and placed the child before the King Bṛhadratha. As desired by Jarā the child was named Jarāsandha because he was joined together by Jarā. This child grew up and became the notorious King Jarāsandha of Magadha. (M.B. Sabhā Parva, 3 Chapters from 17).
It is mentioned in Mahābhārata, Droṇa Parva, Chapter 182, Stanza 12 that when Arjuna fought with Jarā- sandha this harpy had been staying in the weapon of Jarāsandha and was killed in that fight.
_______________________________
*4th word in left half of page 348 (+offset) in original book.