भारतीयसंविधानस्य अष्टमानुसूची
भारतीयसंविधानस्य अष्टमानुसूच्यां (ध्वन्यात्मकहिन्दी: भारतीय संविधान की आठवीँ अनुसूची; आङ्ग्ल: Eighth Schedule to the Constitution of India) भारतगणराज्यस्य आधिकारिकभाषाः सूचीकृताः सन्ति । संविधानस्य प्रक्लृप्नं समये अस्मिन् सूच्यां समावेशः इत्युक्ते भाषा राजभाषा-आयोगे प्रतिनिधित्वस्य अधिकारिणी अस्ति, तदतिरिक्तं भाषा तासु आधारेषु अन्यतमा भविष्यति यस्याः आधारेण सङ्घस्य राजभाषयोः हिन्दी-आङ्ग्लयोः समृद्धीकरणाय आकृष्टा भविष्यति । ततः परं तु एषा सूची अधिकं महत्त्वं प्राप्तवती । इदानीं भारतसर्वकारः एतासां भाषाणां विकासाय उपायान् कर्तुं दायित्वं धारयति, यथा "ताः द्रुतगत्या समृद्धिषु वर्धन्ते, आधुनिकज्ञानस्य सञ्चारस्य प्रभावी साधनानि भवन्ति च" इति । तदतिरिक्तं लोकसेवायै आयोजितायां परीक्षायां उपस्थितः/उपस्थिता अभ्यर्थी/अभ्यर्थिनी पत्रस्य उत्तरं दातुम् एतेषु कस्यापि भाषायाः उपयोगं माध्यमरूपेण कर्तुम् अर्हति ।
अनुसूचितभाषाः
[सम्पादयतु]भारतीयसंविधानस्य ३४४(१), ३५१ अनुच्छेदौ अनुसारम् अष्टमानुसूच्यां निम्नलिखितानां २२ भाषाणां मान्यता अन्तर्भवति –
- असमिया
- उर्दू
- ओडिया
- कन्नड
- काश्मीरी
- कोङ्कणी
- गुजराती
- डोगरी
- तमिळ्
- तेलुगु
- नेपाली
- पञ्जाबी
- बाङ्गला
- बोडो
- मणिपुरी (मीतै)
- मराठी
- मलयाळम्
- मैथिली
- संस्कृतम्
- सान्ताली
- सिन्धी
- हिन्दी
कालक्रमः
[सम्पादयतु]- १९५०: १४ प्रारम्भे संविधाने समाविष्टाः आसन् ।
- १९६७: सिन्धी २१ तमे संविधानसंशोधनाधिनियमेन योजिता ।
- १९९२: कोङ्कणी-मणिपुरी (मीतै)-नेपाली ७१ तमे संविधानसंशोधनाधिनियमेन योजिताः ।
- २००३: बोडो-डोगरी-मैथिली-सान्ताली ९२ तमे संविधानसंशोधनाधिनियमेन योजिताः ।
- २०११: उडिया (उड़िआ) इति वर्तन्याः स्थाने ९६ तमे संविधानसंशोधनाधिनियमेन ओडिया (ओड़िआ) इति वर्तनी अभवत् ।
अष्टमानुसूच्यां समावेशार्थम् अधिकानां भाषाणाम् अभियाचना
[सम्पादयतु]आधुना गृहमन्त्रालयस्य मते संविधानस्य अष्टमानुसूच्यां ३८ अधिकाः भाषाः समावेशयितुं अभियाचना सन्ति । एताः सन्ति –
- अङ्गिका
- आङ्ग्ल
- ककबरक (त्रिपुरी)
- कच्छी
- काम्तापुरी
- कार्भी
- कुडमाली
- कुमाऊँनी (पहाडी)
- कुरुख
- कोडावा
- खासी
- गढवळि (पहाडी)
- गुज्जरी
- गोण्डी
- छत्तीसगढी
- तुळु
- तेन्��िदि
- धाटकी
- नागपुरी (सादरी)
- निकोबारी
- पहाडी (हिमाचली)
- पालि
- बज्जिका
- बञ्जारा
- बुन्देलखण्डी
- भूटिया
- भोजपुरी
- भोटी
- मगही
- मिजो (लुशायी)
- मुण्डारी
- राजस्थानी
- लिम्बू
- लेप्चा
- शौरसेनी (प्राकृतम्)
- सम्बलपुरी / कोशाली
- सराइकी
- हो