इन्दिरा गान्धी
Indira Gandhi इंदिरा गांधी | |
---|---|
3rd Prime Minister of India | |
In office 14 January 1980 – 31 October 1984 | |
President |
नीलं सञ्जीव रेड्डि ज्ञानी जैल सिंह |
Preceded by | चौधरी चरणसिंह |
Succeeded by | राजीवगान्धिः |
In office 24 January 1966 – 24 March 1977 | |
President |
सर्वपल्ली राधाकृष्णन् जाकिर हुसैन वराहगिरिः वेङ्कटगिरिः (Acting) मोहम्मद हिदायतुल्लाह (Acting) वराहगिरिः वेङ्कटगिरिः फक्रुद्दीन अलि अहमद बसप्प दानप्प जत्ति (Acting) |
Deputy | मोरारजी देसाई |
Preceded by | गुलजारीलाल नन्दा (Acting) |
Succeeded by | मोरारजी देसाई |
विदेशीयमन्त्री | |
In office 9 March 1984 – 31 October 1984 | |
Preceded by | नरसिंह राव् |
Succeeded by | राजीवगान्धिः |
In office 22 August 1967 – 14 March 1969 | |
Preceded by | महमदाली करीम् चाग्ला |
Succeeded by | दिनेश् सिंह |
रक्षणा मन्त्री | |
In office 14 January 1980 – 15 January 1982 | |
Preceded by | चिदम्बरम् सुब्रह्मण्यम् |
Succeeded by | रामस्वामी वेङ्कटरामन् |
In office 30 November 1975 – 20 December 1975 | |
Preceded by | सरदार स्वरण् सिंह |
Succeeded by | बन्सी लाल् |
ग्रुहमन्त्री | |
In office 27 June 1970 – 4 February 1973 | |
Preceded by | यशवन्तराव् चवाण् |
Succeeded by | उमा शङ्कर् दीक्षित् |
वित्त मन्त्री | |
In office 16 July 1969 – 27 June 1970 | |
Preceded by | मोरारजी देसाई |
Succeeded by | यशवन्तराव् चवाण् |
व्यैय्यक्तिकसूचना | |
Born |
Allahabad, United Provinces, British India | १९ १९१७
Died |
३१ १९८४ नव देहली, भारत् | (आयुः ६६)
Political party | भारतीय नॅशनल् कान्ग्रेस् |
Spouse(s) | Feroze Gandhi |
Children |
Rajiv Sanjay |
Alma mater | Somerville College, Oxford |
Website | इन्दिरा गान्धी |
इन्दिरा प्रियदर्शिनी गान्धी (१९१७-१९९३) प्रयागे जाता । पठितुं सा गुरुदेवरवीन्द्रनाथ ठाकुरस्य शान्तिनिकेतन विद्यापीठम् अगच्छत् । ततः युरोपमहाद्वीपं गतवती ।
सा भारतस्य प्रधानमन्त्रिणी आसीत् । भारतदेशे सा एका एव महिला वित्तमन्त्रालये प्रमुखमन्त्रिपदं भूषितवती । तस्या: शासनकाले भारतदेशे प्रथमम् अण्वस्त्रपरीक्षणं कृतम् ।
इयं १९६६ तमात् वर्षात् १९७७ तमवर्षपर्यन्तं त्रिवारं भारतस्य प्रधानमन्त्रिणी आसीत् । तदनन्तरं १९८० तम वर्षतः १९८४ तस्याः हत्याकाण्डपर्यन्तं मन्त्री आसीत् । सा आहत्य १५ वर्षकालं प्रधानमन्त्रीस्थानं समलङ्करोत् । सा भारतस्य प्रथमा महिला प्रधानमन्त्री आसीत् इदानीमपि तत्स्थानं रिकतमेवास्ति । एतस्याः मोहनदासगान्धीमहाभागस्य च सम्बन्धः एव नास्ति ।
एषा प्रभावीनेहरुकुले जाता प्रबलराजनैतिकवातावरणे वर्धिता च । मोतिलालनेहरु अस्याः पितामहः । भारतीय स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः आसीत् सः । स्वतन्त्रभारतस्य प्रधानमन्त्री जवहरलालनेहरु एव अस्याः पिता । १९४१ तमे वर्षे आक्सफर्डतः.[१] भारतं प्रति आगत्य एषा भारतीयस्वातन्त्रसंग्रामे पात्रम् ऊढवती । १९५० तमे वर्षे प्रथमप्रधानमन्त्री तस्य पिता यदा आसीत् तदा एषा तस्य वैयक्तिकसहायिका भूत्वा सेवां कृतवती । १९६४ तमे वर्षे तस्याः पिता दिवङ्गतः । भारतस्य राष्ट्रपतिना एतस्याः राज्यसभासदस्यत्वं प्राप्तम् । ततः वार्ताप्रसारमन्त्रिपदवीं लालबहादूरशास्त्रीसचिवालये प्राप्तम् ।
सा सहस्राब्दे: म��िला(Woman of the Millennium) इति बी बी सी संस्थया प्रशस्तिः दत्ता आसीत् [२]।
शास्त्रिमहोदयस्य निधनं तु अनिरीक्षितमासीत् । ततः इन्दिरागान्धी प्रधानमन्त्री अभूत् । एनाम् एतत्पदव्यां स्थापयितुं काङ्ग्रेसपक्षस्य अध्यक्षः कापरमहाभागस्य एव मुख्यप्रात्रमस्ति । सा जनानुरागी भूत्वा सिद्धान्तस्थापनं कृतवती । सा निर्वाचने विजयं प्राप्य स्वसामर्थ्यं प्रदर्शितवती । सा कृषिकार्यार्थं कृषिकान् प्रोत्साहितवती । १९७१ तमे वर्षे जाते भारतपाकिस्थानयोः युद्धे भारतेन निर्णायकः विजयः प्राप्तः । तदा इन्दिरा प्रधानी आसीत् । परन्तु तस्मिन् सन्दर्भे भारते असुरक्षितता सर्वत्र कोलाहलमयवातावरणं च आसीत् । तदा सा देशे आपत्कालिकीं परिस्थितिं धोषितवती । दीर्धकालीनं निरङ्कुशप्रभुत्वम् आसीत् तस्याः । अतः पूर्वं कदापि अपजयमेव न दृष्टवता कांग्रेस्पक्षेण १९७७ तमे वर्षे सार्वत्रिकनिर्वाचने पराभवः प्राप्तः ।
पुनः १९८० तमे वर्षे काङ्ग्रेस्पक्षेण अधिकारः प्राप्रः । पुनः इन्दिरा एव आगतवती॥ १९८४ तमे वर्षे जून्मासे नेक्स्लेट्स् जनानां बन्धनं कर्तुम् इन्दिरा सिक्कजनानां पवित्रं स्थलं स्वर्णमन्दिरं प्रवेष्टुम् आदिदेश । एतत् सिक्कजनानां महतः क्रोधस्य कारणं जातम् । तस्मात् १९८४ तमे वर्षे अक्टोबर् मासस्य ३१ तमे दिनाङ्के तस्याः हननं कृतम् ।
प्रारम्भिकजीवनम्
[सम्पादयतु]इन्दिरा नेहरुगान्धी १९१७ तमे वर्षे नवेम्बर् मासे १९ दिनाङ्के पण्डितजवहरलाल नेहरु तथा कमलानेहरु दम्पत्योः पुत्रीरूपेण जन्म प्राप्नोत् । सा एकमात्रपुत्री आसीत् । नेहरु महोदयस्य काश्मीरपाण्डितकुलम् । यदा इन्दिरा जाता तदा पितामहः मोतिलाः तथा पिता जवहरलालनेहरु उभौ अपि राजकीयनेतारौ आस्ताम् । बाल्ये गृहे तीव्रराजनैतिकवातावरणम् आसीत् । एतस्याः पिता स्वात्मचरित्रं 'टुवर्डस् फ्रीडम्’ इति पुस्तके एवं उल्लिखितवान् अस्ति - 'यदा अहं कारागृहे आसम् तदा आरक्षकः पुनः पुनः गृहमागत्य सर्वकारेण दापितस्य शुल्कस्य निमित्तं पीठोपकरणानि स्वीकृत्य गच्छन्ति स्म । ममपुत्री चतुर्वर्षीया एतत् दृष्ट्वा खिन्ना भूता बहु असन्तोषं प्रकटितवती । आरक्षकां प्रति अवरोधः यः दर्शितः तया तत् दर्शयति यत् दृष्टं प्रायः तस्याः मनसि आरक्षकाणां व्यवस्थायां विभिन्ना द्दष्टिः एव जायते इति मम खेदः" ।
इन्दिरा युवकानां युवतीनां कृते वानरसेना्-आन्दोलनं प्रारब्धवती । तत् भारतीयस्वातन्त्र्यसंग्रामे मुख्यपात्रम् आवहत । एतेन भारतीय राष्ट्रिय कांग्रेस् पक्षे सूक्ष्म समाचाराणं प्रकटनं निर्बान्धितविचाराणां प्रकटनम् इत्यादि कार्यद्वारा साहाय्यमभवत् । ध्वजपथसञ्चलनं तथा आन्दोलनानि तत्र तत्र अभवन् । शालास्यूते एव प्रमुखकार्यक्रमाणां कार्यसूची पितृगृहात् आरक्षकद्वारा एव रहसि इन्दिरा प्रेषितवती । एवमेव १९३० तमवर्षस्य क्रान्तेः एतदेव मूलस्रोतः अभवत् ।
यूरोपदेशे विद्याभ्यासः
[सम्पादयतु]इन्दिरायाः माता कमलनेहरु दायरोगेण पीडिता आसीत् । कथञ्चित् चिरकालात् दुःखम् अनुभूथ १९३६ तमे वर्षे सा दिवङ्गता । तदा इन्दिरा अष्टादवर्षीया आसीत् । सा यदा इङ्ग्लेण्डमध्ये आक्सफर्डविद्यालये सोमरविल्लेकलाशालायां १९३० तमे वर्षे पठन्ती आसीत् तदा लण्डन्मूलस्य तीव्रगमी स्वातन्त्रपम् 'इण्डियालीग्’ इत्यस्य सदस्या आसीत् ।
१९४० तमे वर्षे प्रारम्भिकदिनेषु इन्दिरा श्वासकोशरोगपीडिता भूत्वा तस्य निवारणार्थं स्विट्सर्लण्ड्देशे गृहे अवसत् । तदा सा दीर्धं पत्रं पित्रे लिखन्ती आसीत् पितृपुत्र्योः मध्ये राजनैतिकी चर्चा पत्रद्वारा चलदासीत् ।
यदा सा युरोप्खण्डे आसीत् तदा क्रियाशीलं फार्सीतरुणं फिरोजगान्धिं दृष्टवती सः मोहनदासगान्धेः दत्तकपुत्रः । तयोः सम्पर्कः गाढः जातः । यतः सोऽपि कुटुम्बसदस्यः इवासीत् ।
फिरोजगान्धिना साकं विवाहः
[सम्पादयतु]इन्दिरा फिरोज भारतं प्रति यदा आगतौ तदा तयोः प्रीतिः परस्परमासीत् । वैद्यस्य सूचनामपि उल्लङ्घ्य परिणेतुमैच्छत् । फिरोजस्य सरलमनोभावः हास्यप्रज्ञा आत्मविश्वासश्च इन्दिराम् आकर्षत् । नेहरु एतावत् शीघ्रं तस्याः विवाहं कर्तुं नेच्छति स्म । तदर्थं तन्निवारणाय महात्मागान्धिम् आश्रितवान् । एतत्सर्वं व्यर्थमभवत् । १९४२ तमे वर्षे मार्च-मासे तयोः विवाहः हैन्दवरीत्या समभवत्.[३] ।
फिरोज इन्दिरा च भारतीय राष्ट्रिय कांग्रेस् पक्षस्य सदस्यौ आस्ताम् । १९०४ तमे वर्षे सञ्जाते भारतात् निर्गच्छ इत्येतस्मिन् आन्दोलने द्वावपि भाम् ऊढ्वा कारागृहं गतवन्तौ ।
स्वातन्त्र्यानन्तरं फिरोज निर्वाचने भाड्म् ऊढवान् उत्तरप्रदेशी संसत्सदस्यः अभवत् । तयोः पुत्रद्वयं राजीवः, सञ्जीवश्च । गच्छता कालेन तयोः मध्ये भिन्नाभिप्रायाः अधिकाः जाताः । विच्छेदनपर्यन्तमागतम् परन्तु तावता एव फिरोजस्य अस्वास्थ्यकारणतः तत् स्थगितम् । फिरोजस्य मरणं १९६० तमे वर्षे सेप्टेम्बरमासे अभवत् तावत्पर्यन्तं द्वावपि एकत्र सम्यक् कालं यापितवन्तौ ।
भारतीयराष्ट्रियकांग्रेस्पक्षस्य अध्यक्षा
[सम्पादयतु]१९५९ तथा १९६० तमे वर्षे भारतीयराष्ट्रियकांग्रेस्पक्षे अध्यक्षारूपेण निर्वाचिता जाता । अधिकारावधौ घटानाविशेषाः किमपि नासन् । स्वपितुः कार्यकारी समितिमुख्यस्था भूत्वा कार्यं कृतवती । नेहरु स्वजनपक्षपातं विरुध्य कार्यं करोति स्म । गान्धी १९६२ तमस्य निर्वाचन�� भागं न ऊढवती ।
वार्ताप्रसारमन्त्री
[सम्पादयतु]१९६४ तमे वर्षे मे २७ तमे दिनाङ्के नेहरु दिवंगतः । नूतनप्रधानमन्त्रिणः लालबहाद्धूरशास्त्री महोदयस्य आग्रहेण इन्दिरा निर्वाचने भागं गृहीतवती सर्वकारं च प्रविषृवती । सा वार्ताप्रसारमन्त्रीणी अभवत् [४]।
यदा हिन्दी राष्ट्रभाषात्वेन उदघोषिता तदा तमिलुनाडु राज्ये कोलाहलः जातः । तस्मिन्नवसरे तमिलुनाडु राज्यस्य राजधानी मद्रासनगरं इन्दिरा गतवती । तत्र प्रमुखान् दृष्ट्वा तैः साकं चर्चां कृत्वा तेषां कोपशमनं कृतवती । कोलाहलकारणतः यत्र यत्र नष्टानि जातानि तत्र पुननिर्माणकार्यं स्वयं कारितवती । एतस्याः राजनैतिककलाकौशलं व्यक्तित्वनैपुण्यं च श्लाधनीयमासीत् ।
टिप्पणी
[सम्पादयतु]- ↑ "Exhibit celebrates 120 years of South Asians at Oxford". University of Oxford. 22 April 2010. Archived from the original on 2 January 2013. आह्रियत 24 December 2012.
- ↑ "Indira Gandhi 'greatest woman'". BBC News. 1 December 1999. आह्रियत 31 July 2013.
- ↑ "Sonia assures help for father-in-law’s grave". Indianexpress.com. 21 November 2005. आह्रियत 31 July 2013.
- ↑ Gandhi, Indira. (1982) My Truth
बाह्यसम्पर्कतन्तु
[सम्पादयतु]
|
- इन्दिरा गान्धी Archived २०१४-०५-२१ at the Wayback Machine
- इन्दिरा गान्धी Archived २०११-०२-१२ at the Wayback Machine